________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [191] भूतस्य कृतमपि सद् विफलं तत् ज्ञेयं स्मृतिमूलत्वाद्धर्मानुष्ठानस्य, तदभावे तदभावात् / 4 / व्याख्यातं स्मृत्यकरणमधुनानवस्थितकरणमाहकाऊण तकखणं चिय पारेइ करेइ वा जहिच्छाए। अणवट्टियसामइयं अणायराओ न तं सुद्धं // 317 // [कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया / अनवस्थितसामायिकं अनादरानं तच्छुद्धम् // 317 / / ] कृत्वा तत्क्षणमेव करणानन्तरमेव पारयति, करोति वा यदृच्छया यथाकथंचिंदेवमनवस्थितं सामायिकमनादरादबहुमानान्नैतच्छुद्धं भवति न निरवद्यमिति // 5 // उक्तं सातिचारं प्रथमं शिक्षापदमधुना द्वितीयमाहदिप्तिवयगहियरस दिसापरिमाणस्सेह पइदिणंजं तु। परिमाणकरणमेयं बीयं सिक्खावयं भणियं / 318 / [दिग्व्रतगृहीतस्य दिग्परिमाणस्य इह प्रतिदिनं यदेव / परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् / / 318 // ] दिग्वतं प्रानिरूपितस्वरूपं तद्गृहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्वितीयं शिक्षापदं