________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [71 ] जं साइयांरमेयं खिप्पं नो मुक्खसाहगं भणिअं। तम्हा मुक्खट्टी खलु वज्जिज्ज इमे अईयारे / 96 / [ यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् / तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् // 96 // ] यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाधकं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिष्टकर्मक्षयहेतुत्वात्तस्मात् मोक्षार्थी अपवर्गार्थी खल्लिति खलुशब्दोऽवधारणे मोक्षार्थ्येव वर्जयेन कुर्यादेतानतिचारान् शङ्कादीनिति // आह सुहे परिणामे पइसमयं कम्मखवणओ कहणु। होइ तह संकिलेसो जत्तो एए अईयारा // 17 // [ आह शुभ परिणामे प्रतिसमयं कर्मक्षपणतः कथं नु / भवति तथा संकलेशो यत एतेऽतिचाराः // 97 // ] एवं सातिचारे सम्यक्त्वे उक्त सति पर आह / शुभे परिणामे सम्यक्त्वे सति प्रशमसंवेगादिलक्षणे प्रतिसमयं समयं समयं प्रति कर्मक्षपणतः विशिष्टकर्मक्षपणात् मिथ्यादृष्टेः सकाशात्सम्यग्दृष्टिविशिष्टकर्मक्षपणक एवेत्युक्तं कथं केन प्रकारेण नु इति क्षेपे भवति तथा संक्लेशो जायते चित्तविभ्रमः यतो यस्मात्संकुलेशादेते शंकादयोऽतिचारा भवन्ति