________________ [70 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / नधार्मिको हि सम्यग्दृष्टेः साधुः साध्वी श्रावकः श्राविका च / एतेषां कुशलमार्गप्रवृत्तानामुपबृंहणा कर्तव्या। धन्यस्त्वं पुण्यभाक्त्वं कर्तव्यमेतद्यद्भवतारब्धमिति / तद्भाव उपबृंहि. तव्यः। अनुपहणेऽतिचारः / एवं सद्धर्मानुष्ठाने विषीदन् * धर्म एव स्थिरीकर्तव्यः / अकरणेऽतिचारः। आदिशब्दासमानधार्मिकवात्सल्यतीर्थप्रभावनापरिग्रहः। समानधार्मिकस्य ह्यापद्गतोद्धरणादिना वात्सल्यं कर्तव्यं / तदकरणेऽतिचारः / एवं स्वशक्त्या धर्मकथादिभिः प्रवचने प्रभावना कार्या / तदकरणेऽतिचार इति // तथा चाह- . नो खल अप्परिवडिए निच्छयओ मइलिएव सम्मत्ते होइ तओ परिणामो जत्तो णुववूहणाईया // 15 // [न खल्वप्रतिपतित निश्चयतो मलिनीकृते वा सम्यक्त्वे / भवति तकः परिणामो यतोऽनुपबृंहणादयः // 95 / / ] न खल्विति नैव अप्रतिपतितेऽनपगते निश्चयतो निश्चयनयमतेन मलिनीकृते वा व्यवहारनयमतेन सम्यक्त्वे उक्तलक्षणे भवति तकः परिणामो जायते भावात्मस्वभावः यतो यस्मात्परिणामादनुपबृंहणादयो भवन्तीति / उक्ताः सम्यक्त्वातिचाराः। एते मुमुक्षुणा वर्जनीयाः। किमिति * प्रमादन.