________________ [72 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ततश्चानुत्थानमेवैतेषामिति पराभिप्रायः / अत्र गुरुर्भणतिनाणावरणादुदया तिव्वविवागा उ भंसणा तेर्सि। सम्मत्तपुग्गलाणं तहासहावाउ कि न भवे // 18 // [ ज्ञानावरणाद्युदयात्तीव्रविपाकात्तु भ्रंशना तेषाम् / सम्यक्त्वपुद्गलानां तथास्वभावत्वात् किं न भवति // 98 // ] ज्ञानावरणाद्युदयात्किविशिष्टात्तीव्रविपाकात्, न तु मंदविपाकात्तस्मिन् सत्यपि अतिचारानुपपत्तेः सम्यग्दर्शनिनामपि मन्दविपाकस्य तस्य उदयात् , अतस्तीबानुभावादेव भ्रंशना स्वस्वभावच्युतिरूपा तेषां सम्यक्त्वपुद्गलानां तथास्वभावत्वान्मिथ्यात्वदलिकत्वात् जायत इति वाक्यशेषः अतः किं न भवत्यसौ संक्लेशो यत एतेऽतिचारा भवन्त्येवेत्यभिप्रायः / / उक्तं च प्रज्ञोपनायाँ कर्मप्रकृतिपदे बन्धचिन्तायां " कहनं भंते जीवे अट्ठकम्मप्पगडीउ बंधइ गोयमा णाणावरणिज्जस्स कम्मस्स उदएणं दंसणावरणिज्ज कम्मं नियच्छइ दंसणावरणिज्जस्स कम्मस्स उदयेणं दंसणमोहणिज्ज कम्मं नियच्छइ दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं णियच्छइ मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्ठकम्मपगडीउ बंधइत्ति"। तत्र नेगंतेणं चिय जे तदुदयभेया कुणंति ते मिच्छं / तत्तो हुंतिऽइयारा वज्जेयव्वा पयत्तेणं // 19 //