________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [73 ] [ नैकान्तेनैव ये तदुदयभेदाः कुर्वन्ति तान् मिथ्यात्वम् / * तत्तो भवन्त्यतिचारा वर्जयितव्याः प्रयत्नेन // 99 // ] नैकान्तेनैव न सर्वथैव ये तदुदयभेदा ज्ञानावरणायुदयप्रकाराः कुर्वन्ति तान् सम्यक्त्वपुद्गलान् मिथ्यात्वं अपि तु भ्रंशनामात्रमेव तत्तस्मात् ज्ञानावरणाधुदयाद्भवन्त्यतिचाराः शङ्कादयः ते च वर्जयितव्याः प्रयत्नेनेति // जे नियमवेयणिज्जस्स उदयओ होन्ति तह कहं तेउ। वज्जिज्जति इह खलु, सुद्धणं जीवविरिएणं 100 [ये नियमवेदनीयस्योदयतो भवन्ति तथा कथं पुनस्ते / वर्जन्ते इह खलु शुद्धेन जीववीर्येण // 100 // ] __स्यादेतत् ये शङ्कादयो नियमवेदनीस्य ज्ञानावरणादेरुदयतो भवन्ति, तथा तेन प्रकारेण कथं पुनस्ते वर्जन्ते इह प्रक्रमे प्रस्तावे. खलुशब्दादन्यत्रापि चारित्रादौ तत्कर्मणो अफलत्वप्रसङ्गात् , इति आशङ्कयाह, शुद्धेन जीववीर्येण, कथंचित्प्रादुभूतेन प्रशस्तेनात्मपरिणामेनेति // अमुमेवार्थ समर्थयन्नाहकत्थइ जीवो बलीओ, कत्थइकम्माइ हुतिबलियाई जम्हाणंता सिद्धा, चिट्ठति भवंमि वि अणंता 101 [क्वचित् जीवो बलीकः क्वचित्कर्माणि भवन्ति बलवन्ति / यस्मादनन्ताः सिद्धाः तिष्ठन्ति भवेऽप्यनन्ताः // 101 // j