________________ [ 132 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कर्मक्षपणं तु मरणकालादारतः वधविरतिः कर्मक्षयमेव साधयतीति गाथार्थः। एतदेव भावयतितत्तु चिय सो भावो जायइ सुद्धेण जीववीरिएण। कस्सइ जेण तयं खलु अवहिता गच्छइ मुक्खं / 215 / [ तत एव स भावः जायते शुद्धेन जीववीर्येण / कस्यचित् येन तकं खलु अहत्वा गच्छति मोक्षम् // 215 // ] तत एव वधविरतेः स भावः 'चित्तपरिणामलक्षणो जायते शुद्धेन जीववीर्येण कर्मानभिभूतेनात्मसामर्थेन कस्यचित्प्राणिनो येन भावेन तकं व्यापायं अवधित्वा अहत्वैव गच्छति मोक्षं प्राप्नोति निर्वाणमिति // इय तस्स तयं कम्मं न जहकयफलं ति पावइ अह तु। तं नो अन्झवसाणा ओवट्टणमाइभावाओ // 216 // [एवं तस्य तकं कर्म न यथाकृतफलमेव प्राप्नोति अथ त / तन्न अध्यवसायात् अपवर्तनादिभावात् // 216 / / इय एवमुक्तेन न्यायेन तस्य व्यापाद्यस्य तत्कर्म अस्मान्मर्तव्यमित्यादिलक्षणं न यथाकृतफलमेव ततो मरणाभावाप्रामोत्यापद्यते अथ त्वमेवं मन्यसे इत्याशङ्कयाह // तन्न तदेतन्न अध्यवसायात्तथाविधचित्तविशेषादपवर्तनादिभावोत्तथा हाससंक्रमानुभवश्रेणिवेदनादिति गाथार्थः।