________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 131 ] स तं व्यापादयतीति निःफलं कर्मापद्यते न चैतदेवं तस्मात्तस्येयासौ दोषो यत्तथा कर्म कृतमनेनेति / वधकोऽनपराध इति एष पूर्वपक्षः / अत्रोत्तरमाहनियकयकम्मुवभोगे वि संकिलेसो धुवौं वहंतस्स / तत्तो बंधोतं खलु तव्विरईए विवज्जिज्जा // 213 // [निजकृतकर्मोपभोगेऽपि संकूलेशः ध्रुवं घ्नतः / ततः बन्धः तं खलु तद्विरत्या वर्जयेत् // 213 // ] निजकृतकर्मोपभोगेऽपि व्यापाद्यव्यापत्तौ स्वकृतकर्मविपाकेऽपि सति तस्य संपलेशोऽकुशलपरिणामो ध्रुवमवश्यं घ्नतो व्यापादयतस्ततस्मात्संकलेशाद्वन्धस्तं खलु तमेव बन्धं तद्विरत्या वधविरत्या वर्जयेदिति // तत्त चिय मरियव्वइय बद्धे आउयंमि तविरई। नणु किं साहेई फलं तदारओ कम्मखवणं तु॥२१४॥ [ततः एव मर्तव्यं एवं बद्धे आयुपि तद्विरतिः। ननु किं साधयति फलं तदारतः कर्मक्षपणम् // 214 // ] तत एव देवदत्तादेः सकाशात् मर्तव्यं इय एवमनेन प्रकारेण बढे आयुषि उपात्ते आयुष्कर्मणि व्यापायेन वधविरतिननु किं साधयति फलं तस्योवश्यभावित्वेन तदसंभवात विरत्यसंभवात् न किंचिदित्यभिप्रायः। अत्रोत्तरं तदारतः