________________ [130 ] __सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / जइ तेण तहा अकए तं वहइ तओ सतंतभावेण / अन्न पि किं न एवं वहेइ अणिवारियप्पसरो॥२११॥ [ यदि तेन तथा अकृते तं हन्ति तकः स्वतन्त्रभावेन / . अन्यमपि किं न एवं हन्ति अनिवारितप्रसरः // 211 // ] यदि तेन व्यापाद्यन तथा तेन प्रकारेण अस्मान्मर्तव्यमित्यादिलक्षणेन अकृते अनुपात्ते कर्मणीति गम्यते तं व्यापाचं हन्ति व्यापादयति तको वधकः स्वतन्त्रभावेन स्वयमेव कथंचित् / अत्र दोषमाह / अन्यमपि देवदत्तादिकं किं न एवं हन्ति यथा तं निमित्ताभोवस्याविशेषात्* अनिवारितप्रसरः स्वातन्त्र्येण व्यापादनशील इति / न य सव्वी सव्वं चिय वहेइ निययस्सभावओअह न। वज्झस्स अफलकम्मं वहगसहावेण मरणाओ॥२१२॥ [न च सर्वः सर्वमेव हन्ति नियतस्वभावतः अथ न / वध्यस्याफलं कर्म वधकस्वभावेन मरणात् // 212 // ] ___ न च सर्वो व्यापादकः सर्वमेव व्यापाचं हन्ति अदर्शनानियतस्वभावतोऽथ न अथैवं मन्यसे नियतहन्तुस्वभावात् न सर्वान्हन्तीत्येतदाशङ्कयाह / वध्यस्य व्यापाद्यस्याफलं कर्म कुतो वधकस्वभावेन मरणात् यो हि यद्व्यापादनस्वभावः * प्रवृत्तिनिमित्तभावस्याविशेषात्