________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 129 ] ___एतस्य-चोपक्रमस्य यो हेतुर्दण्डादिपीडाकरणेन स वधकः असौ हन्ता येन कारणेन तन्निवृत्तिः वधनिवृत्तिः एवं वंध्यासुतपिशिताशननिवृत्तितुल्या कथं भवति सविषयत्वाद्वधनिवृत्तेरिति / अधुनान्यद्वादस्थानकम्अन्ने भणंति कम्मं जंजेण कयं स भंजइ तयं तु / चित्तपरिणामरूवं अणेगसहकारिसाविक्खं // 209 // [ अन्ये भणन्ति कर्म यद्येन कृतं स भुक्ते तदेव / चित्रपरिणामरूपं अनेकसहकारिसापेक्षम् // 209 // ] अन्ये भणन्ति कर्म ज्ञानावरणादि यद्येन कृतं प्राणिना स भुङ्क्त तदेव चित्रपरिणामरूपं कर्मानेकसहकारिसापेक्षं अस्मादिदं प्राप्तव्यमित्यादिरूपमिति / तकयसहकारित्तं पवज्जमाणस्स को वहो तस्स / तस्सेव तओ दोसो जंतह कम्मं कयमणेणं // 210 // [ तत्कृतसहकारित्वं प्रपद्यमानस्य को वधस्तस्य / तस्यैव असौ दोषः यत्तथा कर्म कृतमनेन // 21 // तत्कृतसहकारित्वं व्यापाद्यकृतसहकारित्वं प्रपद्यमानस्य का वधस्तस्य व्यापादकस्य तस्यैव व्यापाद्यस्यासौ दोषो यत्तथा कर्म अस्मान्मया मर्तव्यमिति - विपाकरूपं कृतमनेन व्यापाद्येनेति / एतदेव समर्थयति