________________ [ 128 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सोवक्कममिह सज्झं इयरमसझं त्ति होइ नायव्वं / सज्झासज्झविभागो एसो नेओ जिणाभिहिओ 206 [सोपक्रममिह साध्यं इतरवदसाध्यमेव भवति ज्ञातव्यम् / __साध्यासाध्यविभागः एष ज्ञेयः जिनाभिहितः // 206 / / ] सोपक्रममिह साध्यं तथाविधपरिणामजनितत्वात् इतरन्निरुपक्रममसाध्यमेव भवति ज्ञातव्यं साध्यासाध्यविभागः एष ज्ञेयो जिनाभिहितस्तीर्थकरोक्त इति / निगमयन्नाहआउस्स उवक्कमणं सिद्ध जिणवयणओय सद्धेयं / ज छउमत्यो सम्मं नो केवलिए मुणइ भावे 207 [ आयुष उपक्रमणं सिद्धं जिनवचनाच्च श्रद्धेयम् / यच्छद्मस्थः सम्यग न केवलिकान् जानाति भावान् / 207 / ] आयुष उपक्रमणं सिद्धमुक्तन्यायात् जिनवचनाच्च भवति श्रद्धेयं किमित्यत्रोपपत्तिमाह यद्यस्माच्छद्मस्थः अर्वाग्दी सम्यगशेषधर्मापेक्षया न केवलज्ञानगम्यान् मुणति भावान् जानाति पदार्थानिति / प्रकृतयोजनायाहएयस्स य जो हेऊ सो वहओ तेण तन्निवित्ती य। वंझासुयपिसियासणनिवित्तितुल्ला कहं होइ / 208 / [एतस्य च यो हेतुः स वधकः तेन तन्निवृत्तिश्च / वंध्यासुत पिशिताशननिवृत्तितुल्या कथं भवति.॥२०८॥]