________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 127.] नणुतं न जहोवचियं तहाणभवओ कयागमाईया। तप्पाओग्गं चिय तेण तं चियं सज्झरोगुब्व / 204 / [ ननु तत् न यथोपचितं तथानुभवतः अकृतागमादयः। तत्प्रायोग्यमेव तेन तचितं साध्यरोगवत् // 204 // ] नन्वेवमपि तत्कर्म न यथोपचितं तथानुभवतः वर्षशतभोग्यतयोपचितं उपक्रमेणारादेवानुभवतोऽकृतागमादयस्तदवस्था एव / अत्रोत्तरमाह तत्प्रायोग्यमेवोपक्रमप्रायोग्यमेव तेन तच्चितं बद्धं किंवदित्याह साध्यरोगवत् साध्यरोगो हि मासादिवेद्योऽप्यौषधेरपान्तराल एवोपक्रम्यत इति / तथा चाहअणवक्कमओ नासइ कालेणोवक्कमेण खिप्पं पि। कालेणेवासज्झो सज्झासमं तहा कम्मं / 205 / [अनुपक्रमतः नश्यति कालेनोपक्रमेण क्षिप्रमपि / कालेनैवासाध्यः साध्यासाध्यं तथा कर्म // 205 // ] अनुपक्रमतः औषधोपक्रममन्तरेण नश्यत्यपैति कालेनात्मीयेनैव उपक्रमेण क्षिप्रमपि नश्यति साध्ये रोगे इयं स्थितिः कालेनैवासाध्य उभयमत्र न संभवति साध्यासाध्यं तथा कर्म साध्ये उभयं असाध्ये एक एव प्रकार इति / साध्यासाध्ययोरेव स्वरूपमाह