________________ [ 126 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् / भिन्नोऽनुभवकालः ज्येष्ठः मध्यः जघन्यश्च // 202 // ] तथा तुल्येऽपि कर्मणि कर्मद्रव्यतया परिणामादिक्रियाविशेषात्तीव्रतीव्रतरपरिणामबाह्यसंयोगक्रियाविशेषेण भिन्नोऽनुभवकालः कर्मणः कथं ज्येष्ठो मध्यो जघन्यश्च ज्येष्ठो निरुपक्रमस्य यथाबद्धवेदनकालः, मध्यस्तस्यैव तथाविधतपश्चरणभेदेनx जघन्यः क्षाकश्रेण्यनुभवनकालः शैलेस्यनुभवनकालो वा तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेन अन्यथा विरोध इति / दृष्टान्तान्तरमाहजह वा दीहा रज्जूडज्झइ कालेण पुंजिया खिप्पं / वियओ पडो वि सूसह पिण्डीभूओ उ कालेणं 203 [ यथा वा दीर्घा रज्जुः दह्यते कालेन पुंजिता क्षिप्रम् / विततः पटोऽपि शुष्यति पिंडीभूतस्तु कालेन // 203 // ] यथा वा दीर्घा रज्जुः पर्यन्तदीपिता सती तथा क्रमेणैव दह्यते कालेन प्रदीर्घणेति भावः। पुअिता क्षिप्रं शीघ्रमेव दह्यते / विततः पटो वा जलाोऽपि शुष्यति क्षिप्रमिति वर्तते पिण्डीभूतस्तु कालेन शुष्यति प्रदीर्घेणेति हृदयं न च तत्राधिकं जलमिति / अत्राह x वेदने.