________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 125 ] [ किंचिदकालेऽपि फलं पाच्यते पच्यते च कालेन / तथा कर्म पाच्यते कालेन विपच्यते चान्यत् // 200 // ] किञ्चिदकालेऽपि पाककालादारतोऽपि फलमाम्रफलादि पाच्यते गर्ताप्रक्षेपकोद्रवपलालस्थगनादिनोपायेन पच्यते च कालेन किंचित्तत्रस्थमेव स्वकालेन पच्यते / यथेदं तथा कर्म पाच्यते उपक्राम्यते विचित्रैरुपक्रमहेतुभिः कालेन विपच्यते चान्यत् विशिष्टानुपक्रमहेतून्विहाय विपाककालेनैव विपाकं गच्छतीति / दृष्टान्तान्तरमाहभिन्नो जहेह कालो तुल्ले वि पहंमि गइविसेसाओ। सत्थे व गहणकालो मइमेहाभेयओ भिन्नो / 201 // [भिन्नो यथेह कालः तुल्येऽपि पथि गतिविशेषात् / शास्त्रे वा ग्रहणकालो मतिमेधाभेदाद्भिन्नः // 201 // ] भिन्नो यथेह कालोऽर्धप्रहरादिलक्षणस्तुल्ये ऽपि पथि समाने योजनादौ मार्गे गतिविशेषाद्गमनविशेषेण शीघ्रगतिरर्धग्रहरेण गच्छति मध्यमः प्रहरेणेत्यादि / शास्त्रे वा व्याकरणादौ ग्रहणकालो मतिमेधाभेदाद्भिन्नः कश्चिद्वादशभिवर्षेः तदधीते कश्चिद्वर्षद्वयेनेत्यादि / एष दृष्टान्तोऽयमर्थोपनयः। तह तुल्लंमि वि कम्मे परिणामाइकिरियाविसेसाओ। भिन्नो अणुभवकालो जिट्ठो मज्झो जहन्नो य // 202 //