________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [133 ] सकयं पि अणेगविहं तेण पगारेण भुजिउं सव्वं / अपुवकरणजोगा पावइ मुक्खं तु कि तेण // 217 // [स्वकृतमपि अनेकविधं तेन प्रकारेण अभुक्त्वा सर्वम् / अपूर्वकरणयोगात् प्रामोति मोक्षं तु किं तेन // 217 // ] किं च स्वकृतमप्यात्मोपात्तमप्यनेकविधं चतुर्गतिनिबंधनं तेन प्रकारेण चतुर्गतिवेद्यत्वेन अभुक्त्वा सर्वमननुभूय निरवशेषं अपूर्वकरणयोगात् क्षपकश्रेण्यारंभकादपूर्वकरणसंबन्धात्प्रामोति मोक्षमेवासादयति निर्वाणमेव किं तेन व्यापादकभावनिबंधनत्वपरिकल्पितेन कर्मणेति स्यात्तस्मिन् सति न चरणभाव एवेति / अत्राहपरकयकम्मनिबंधा चरणाभावंमि पावइ अभावो। सकयस्स निष्फलता सुहदुहसंसारमुक्खाणं // 218 // [ परकृतकर्मनिबन्धात् चरणाभावे प्रामोत्यभावः / स्वकृतस्य निष्फलत्वं सुखदुःखसंसारमोक्षाणाम् // 218 // ] परकृतकर्मनिबंधाव्यापाद्यकृतकर्मनिबंधनेन व्यापादकस्य चरणाभावे अभ्युपगम्यमाने प्रामोत्यभावः सुखदुःखसंसारमोक्षाणामिति योगः कुतः स्वकृतस्य निःफलत्वानिःफलत्वं चान्यकृतेन प्रतिबंधादिति /