________________ [ 152 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्यातिचारा अतिक्रमणहेतवो यथाविधि यथाप्रकारं ज्ञात्वा परिहर्तव्याः सर्वैः पकार्वजनीयाः प्रयत्नेनेति योगः किमर्थ संपूर्णपालनार्थ न यतिचारवतः संपूर्णा तत्पालना तद्भावे तत्खंडनादिप्रसंगादिति तथा चाहबंधवहछविच्छेए अइभारे भत्तपाणवुच्छेए। कोहाइसियमणो गोमणुयाईण नो कुज्जा / 258) [बन्धवधछविच्छेदान् अतिभारं भक्तपानव्यवच्छेदम् / . क्रोधादिदूषितमनाः गोमनुष्यादीनां न कुर्यात् / / 258 // ] तत्र बन्धनं बन्धः संयमनं रज्जुदामनकादिभिः / 1 / हननं वधस्ताडनं केशादिभिः / 2 / छविः शरीरं तस्य छेदः पाटनं करपत्रादिभिः 13 / भरणं भारः अतिभरणं अतिभारः प्रभृतस्य पूगफलादेः स्कन्धपृष्ठारोपणमित्यर्थः / 4 / भक्तमशनमोदनादि पानं पेयमुदकादि तस्य व्यवच्छेदो निरोधः अदानमित्यर्थः / 5 / एतान्समाचरनतिचरति प्रथमाणुव्रतं एतान् क्रोधादिषितमना न कुर्यादिति अनेनापवादमाह अन्यथाकरणेऽप्रतिषेधावगमात् // तदत्रायं पूर्वाचार्योक्तविधिः / बंधो दुविहो दुपयाणं च. उप्पयाणं च अट्ठाए अणट्ठाए अणट्ठाए न वट्टए बंधिडं, अट्ठाए दुविहो सावेक्खो निरवेक्खो य, निरवेक्खो निच्चलं