________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 151] [किं चिन्तयति न मनसा किं वाचा न जल्पति पापम् / - न चेतोऽपि न बन्धः तस्माद्विरतिं सर्वथा कुर्यात् // 255 // ] किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वात तस्य किं वाचा न जल्पति पापं तस्या अपि प्रायोऽनिरुद्धस्वादिति न चातोऽपि योगद्वयव्यापारान्न बन्धः किं तु बन्ध एवं यस्मादेवं तनस्माद्विरतिं सर्वथा कुर्यात् अविशेषण कुर्यादित्यर्थः // एवं मिच्छादंसणवियप्पवसओऽसमंजसं केई। जपंति जंपि अन्नतं पि असारं मुणेयव्व।२५६ [एवं मिथ्यादर्शनविकल्पवशतः असमंजसं केचित् / जल्पन्ति यदपि अन्यत् तदपि असारं मुणितव्यम् // 256 // ] एवमुक्तप्रकारं मिथ्यादर्शनविकल्पसामर्थ्येन असमंजसमघटमानक केचन कुवादिनो जल्पन्ति यदप्यन्यत्किंचित्तदप्यसारं मुणितव्यमुक्तन्यायानुसारत एवेति / उक्तमानुषङ्गिकम् / अधुना प्रकृतमाह। पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुनपालणट्ठा परिहरियव्वा पयत्तेणं // 257 // [प्रतिपद्य च व्रतं तस्यातिचारा यथाविधि ज्ञात्वा / संपूर्णपालनार्थ परिहर्तव्याः प्रयत्नेन // 257 // ]