SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं [15] मनिमित्तं वा हास्यं प्रतीतमेव / बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः रतिः / एतेष्वेवाग्रीतिररतिः / भयं त्रासः। परिदेवनादिलिङ्गं शोकः / चेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा / यदुदयादेते हास्यादयो भवन्ति ते नोकषायाख्या मोहनीयकर्मभेदा इति भावः। नोकषायता चैतेषामायकषायत्रयविकल्पानुवर्तित्वेन / तथाहि न क्षीणेषु द्वादशस्वमीषां भाव इति // आउं च एत्थ कम्मं चउब्विहं नवरं होइ नायव्वं / नारयतिरियनरामरगइभेयविभागओ भणि॥१९॥ [आयुष्कं च अत्र कर्म चतुर्विधं नवरं भवति ज्ञातव्यम् / नारकतिर्यनरामरगतिभेदविभागतो भणितम् // 19 // ] आयुष्कं च प्रानिरूपितशब्दार्थ अत्र प्रक्रमे क्रियत इति कर्म चतुर्विध चतुःप्रकारं भवति ज्ञातव्यं / नवरमिति निपातः स्वगतानेकभेदप्रदर्शनार्थः / चातुर्विध्यमेवाह / नारकतिर्यङ्नरामरगतिभेदविभागतो गतिभेद विभागेन भणितमुक्तं तीर्थकरगणधरैः तद्यथा नारकायुष्कं तिर्यगायुष्कं मनुष्यायुष्कं देवायुष्कमिति // नाम दुचत्तभेयं गइजाइसरीरअंगुवंगे य। बंधणसंघायणसंघयणसंठाणनामं च // 20 // [नाम द्विचत्वारिंशभेदं गतिजातिशरीराङ्गोपाङ्गानि च / बन्धनसंघातनसंहननसंस्थाननाम च // 20 // ]
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy