________________ [16] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / .. नाम प्रागभिहितशब्दार्थ द्विचत्वारिंशत्प्रकारं / भेदानाह / गतिनाम यदुदयानरकादिगतिगमनं / जातिनाम यदुदयादेकेन्द्रियादिजात्युत्पत्तिः आह स्पर्शनादीन्द्रियावरणक्ष. योपशमसभावादेकेन्द्रियादित्वं नाम चौदयिको भावः तत्कथमेतदिति उच्यते तदुपयोगादिहेतुः क्षयोपशम एकेन्द्रियादिसंज्ञानिबन्धनं च नामेति न दोषः। शरीरनाम यदुदयादौदारिकादिशरीरभावः / अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिवृत्तिः शिरःप्रभतीन्यङ्गानि श्रोत्रादीन्यङ्गोपाङ्गानि / उक्तं च सीसमुरोदरपिट्ठी दो बाहू उरुभया य अटुंगा। अंगुलिमाइ उवंगा अंगोवंगाई सेसाइं // 1 // बन्धननाम यत्सर्वात्मप्रदेशैगृहीतानां गृह्यमाणानां च पुद्गलानां संबन्धजनकं अन्यशरीरपुद्गलैर्वा जतुकल्पमिति / संघातननाम यदुदयादौदारिकादिशरीरपुद्गलग्रहणे शरीररचना भवति / संहनननाम वज्रऋषभनाराचादिसंहनननिमित्तं / संस्थाननाम समचतुरस्रादिसंस्थानकारणं / चः समुच्चय इति गाथार्थः // तह वनगंधरसफासनामगुरुलहू य बोद्धव्व। उवधायपराघायाणुपुब्विऊसासनामं च // 21 // [तथा वर्णगन्धरसस्पर्शनामागुरुलघु च बोद्धव्यम् / उपघातपराघातानुपूर्युच्छासनाम च // 21 // ]