SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [17] तथा वर्णनाम यदुदयात्कृष्णादिवर्णनिवृत्तिः एवं गन्धरसस्पर्शेष्वपि स्वभेदापेक्षया भावनीयमिति / अगुरुलघु च बोद्धव्यं अत्रानुस्वारदीर्घत्वेऽलाक्षणिके सुखोचारणार्थे तूपन्यस्ते तत्रागुरुलघुनाम यदुदयान गुरु पि लघुर्भवति देह इति एकान्ततदभावेसदा निमज्जनोर्ध्वगमनप्रसंगः। उपघातनाम यदुदयादुपहन्यते / पराघातनाम यदुदयात्परानाहन्ति / आनुपूर्वीनाम यदुदयादपान्तरालगतौ नियतदेशमनुश्रेणिगमनं, नियत एवाङ्गविन्यास इत्यन्ये / उच्छ्वासनाम यदुदयादुच्छ्वासनिःश्वासौ भवतः। आह यद्येवं पर्याप्तिनाम्नः क्वोपयोग इति उच्यते पर्याप्तिः करणशक्तिः उच्छ्वासनामवत एव तन्निवृत्तौ सहकारिकारणं इषुक्षेपणशक्तिमतो धनुर्ग्रहणशक्तिवत् / एवमन्यत्रापि भिन्नविषयता सूक्ष्मधियावसेया। चः समुच्चये इति / आयवउज्जोयविहायगई य तसथावराभिहाणं च / बायरसुहुमं पज्जत्तापज्जत्तं च नायव्वं // 22 // [आतपोद्योतविहायोगतिश्च त्रसस्थावराभिधानं च / बादरसूक्ष्मपर्याप्तापर्याप्तं च ज्ञातव्यं // 22 // ] आतपनाम यदुदयादातपवान्भवति पृथिवीकाये आदित्यमण्डलादिवत् / उद्योतनाम यदुदयादुद्योतवान्भवति खद्योतका___ * एकान्ततद्भावे /
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy