________________ [18] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / - दिवत् / विहायोगतिनाम यदुदयाचंक्रमणं इदं च द्विविधं प्रशस्ताप्रशस्तभेदात् प्रशस्तं हंसगजादीनां अप्रशस्तमुष्ट्रादीना. मिति / त्रसनास यदुदयाचलनं स्पन्दनं च भवति त्रसत्वमेवान्ये / स्थावराभिधानं चेति स्थावरनाम यदुदयादस्पन्दनो भवति स्थावर एवान्ये / चः समुच्चये / बादरनाम यदुदयाबादरो भवति स्थूर इत्यर्थः इन्द्रियगम्य इत्यन्ये / सूखमनाम यदुदयात्सूक्ष्मो भवति अत्यन्तश्लक्ष्णः अतीन्द्रिय इत्यर्थः / पर्याप्तकनाम यदुदयादिन्द्रियादिनिष्पत्तिर्भवति / अपर्याप्तकनाम उक्तविपरीतं यदुदयात्संपूर्णपर्याप्त्यनिवृत्तिनं त्वाहारशरीरेन्द्रियपर्याप्त्यनिवृत्तिरपि यस्मादागामिभवायुष्कं बद्ध्वा नियंते सर्व एव देहिनः तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव बध्यत इति / पत्तेयं साहारण-थिरमथिरसुहासुहं च नायव्व। सभगदूभगनाम सूसर तह दूसरं चेव // 23 // [प्रत्येकं साधारण स्थिरमस्थिरं शुभाशुभं च झातव्यम् / सुभगदुर्भगनाम सुस्वरं तथा दुःस्वरं चैव // 23 // ] प्रत्येकनाम यदुदयादेको जीव एव एकमेव शरीरं निवतयति / साधारणनाम यदुदयाद् बहवो जीवा एकं शरीरं निवर्तयंति / स्थिरनाम यदुदयाच्छरीरावयवानां शिरोऽस्थिदन्तादीनां स्थिरता भवति / अस्थिरनाम यदुदयात्तदवयवानामेव चलता भवति कर्णजिह्वादीनां / शुभाशुभं च ज्ञातव्यं /