________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरण / [19] तत्र शुभनाम यदुदयाच्छरीरावयवानां शुभता यथा शिरसः विपरीतमशुभनाम यथा पादयोस्तथा शिरसा स्पृष्टस्तुष्यति पादाहतस्तु रुष्यति, कामिनीव्यवहारे व्यभिचार इति चेत् न, तस्य मोहनीयनिबन्धनत्वात् वस्तुस्थितिश्चेह चिन्त्यत इति / सुभगनाम यदुदयात्काम्यो भवति / तद्विपरीतं च दुर्भगनामेति / सुस्वरनाम यदुदयात्सोस्वयं भवति श्रोतुः प्रीतिहेतुः / तथा दुःस्वरं चैवेति सुस्वरनामोक्तविपरीतमिति // आइज्जमणाइज्जंजसकित्तीनाममजसकित्ती य। निम्माणनाममउंलं चरमं तित्थयरनामं च // 24 // [ आदेयमनादेयं यशःकीर्तिनाम अयश कीर्ति च / निर्माणनाम अतुलं चरमं तीर्थकरनाम च // 24 // ] आदेयनाम यदुदयादादेयो भवति यच्चेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति+ तद्विपरीतमनादेयं / यशः कीर्तिनाम यदुदयाद्यशःकीर्तिभावः यशःकीयोविशेषः दानपुण्यफला कीर्तिः पराक्रमकृतं यशः / अयश:कीर्तिनाम चोक्तविपरीतं / निर्माणनाम यदुदयात्सर्वजीवानां जातौ अङ्गोपाङ्गनिवेशो भवति जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये अतुलं प्रधानं / चरमं प्रधानत्वात्सूत्रक्रमप्रामाण्याच्चेति तीर्थकरनाम + प्रमाणं करोति