________________ [20] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / यदुदयात्सदेवमनुष्यासुरस्य जगतः पूज्यो . भवति / चः समुच्चये इति // गोयं च दुविहभेयं उच्चागोयं तहेव नीयं च / चरमं च पंचभेअं पन्नत्तं वीयरागेहि // 25 // [गोत्रं च द्विविधभेदमुच्चैर्गोत्रं तथैव नीचं च / चरमं च पञ्चभेदं प्रज्ञप्तं वीतरागैः // 25 // ] गोत्रं प्राइनिरूपितशब्दार्थ भवति द्विविधं द्विप्रकारं उच्चैगोत्रं तथैव नीचं चेति नीचैर्गोत्रं च / तत्रोच्चैर्गोत्रं यदुदयादज्ञानी विरूपोऽपि सत्कुलमात्रादेव पूज्यते / नीचे! तु यदुदयाज्ज्ञानादियुक्तोऽपि निंद्यते // चरमं च पर्यन्तवति च सूत्रक्रमप्रामाण्यात्पञ्चभेदं पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिरिति // तं दाणलाभभोगोवभोगविरियंतराइयं जाण / चित्तं पोग्गलरूव विन्नेयं सव्वमेवेयं // 26 // [तदानलाभभोगोपभोगवीर्यान्तरायिकं जानीहि / चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदम् // 26 // ] तदानलाभभोगोपभोगवीर्यान्तरायं जानीहि / तत्र दानातरायं यदुदयात्सति दातव्ये प्रतिग्राहके च.पात्रविशेषे दानफलं च जाननोत्सहते दातुं / लाभान्तरायं तु यदुदयात्सत्यपि