________________ [14] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ईषदर्थे इति // एवं क्रोधमानमायालोभाः प्रतीतस्वरूपाः प्रत्येकं चतुर्विकल्पा इति / क्रोधोऽनन्तानुबन्ध्यादिभेदाच्चतुर्विकल्पः॥एवं मानादयोऽपीति। स्वरूपं चैतेषामित्थमाहुः जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। .. तिणिसलयाकट्टट्ठियसेलत्थंभोवमो माणो // 1 // मायावलेहिगोमुत्तिमिंदसिंगघणवंसमूलसमा / लोहो हलिहखंजणकद्दमकिमिरागसारित्थो // 2 // * [कर्मग्रंथ. 1-19-20] पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो / देवनर तिरियनारयगतिसाहणहेयवो भणिया // 3 // इति अधुना नोकषायभेदानाहइत्थीपुरिसनपुंसगवेयतिगं चेव होइ नायव्वं / हास रइ अरइ भयं सोग दुगंछा य छक्कति // 18 // [स्त्रीपुरुषनपुसंकवेद त्रिकं चैव भवति ज्ञातव्यम् / हास्यं रतिररतिभयं शोको जुगुप्सा चैव षट्कमिति // 18 // ] स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायवेद्यतयेति भावः / तत्र वेद्यत इति वेदः। स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः। पुरुषस्य पुरुषवेदोदयात्स्यभिलाषः / नपुंसकस्य तु नपुंसकवेदोदयादुभयाभिलाषः। हास्यं रतिः अरतिभयं शोको जुगुप्सा चैव षट्कमिति / तत्र सनिमित्त. * नोकषायभेदतयेति /