________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [13] पायवेदनीय। तथा स्त्रीवेदादिनोकपायरूपेण यद्वद्यते तन्नोकपायवेदनीय / अस्यैव भेदानाह // षोडश नवभेदं पुनर्यथासङ्ख्येन मुणितव्यं / षोडशमेदं कषायवेदनीयं / नवभेदं नोकषायवेदनीयं / भेदाननन्तरं वक्ष्यत्येवेति // तत्र कषायभेदानाहअण अप्पञ्चक्खाणा पञ्चक्खाणावरणा य संजलणा। कोहमणमायलोहा पत्तेयं चउवियप्पत्ति // 17 // [अनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणाः च संज्वलनाः। क्रोधमानमायालोभाः प्रत्येकं चतुर्विकल्पा इति // 97 // ] अण इति सूचनात्सूत्रं इति कृत्वा अनन्तानुबन्धिनो गृह्यन्ते इह पारंपर्येणानन्तं भवमनुबद्धं शीलं येषामिति अनन्तानुवन्धिनः उदयस्थाः सम्यक्त्वविघातिन इति कृत्वा // अविद्यमानप्रत्याख्याना अप्रत्याख्याना देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैपामुदये लभ्यते इत्यर्थः // प्रत्याख्यानमावृण्वन्ति मर्यादया ईपद्वेति प्रत्याख्यानावरणाः आमर्यादायामीषदर्थे वा मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरति ईषदर्थेऽपि ईषद्वण्वन्ति सर्वविरतिमेव न देशविरतिं देशविरतिश्च भूयसी स्तोकादपि विरतस्य देशविरतिभावात् // चः समुच्चये / ईषत्परीषहादिसन्निपातज्वलनात्संज्वलनाः सम् शब्द