________________ [12] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / द्वे विधेऽस्य तद्विविधं द्विप्रकारं / चः समुच्चये / मोहनीयं प्राकनिरूपितब्दार्थ / द्वैविध्यमेवाह / दर्शनमोहनीयं चारित्रमोहनीयं च / तत्र दर्शन सम्यग्दर्शनं तन्मोहयतीति दर्शनमोहनीयं / चारित्रं विरतिरूपं तन्मोहयतीति चारित्रमोहनीयं / तत्र दर्शनमोहनीयं त्रिविधं त्रिप्रकारं सम्यक्त्वेतरमिश्रवेदनीयं / सम्यक्त्वरूपेण वेद्यते यत्तत्सम्यक्त्ववेदनीयं / इतरग्रहणान्मिथ्यात्वरूपेण वेद्यते यत्तन्मिथ्यात्ववेदनीयं / मिश्रग्रहणात्सम्यग्मिथ्यात्वरूपेण वेद्यते यत्तत्सम्यक्त्वमिथ्यात्ववेदनीयं / एवमयं वेदनीयशब्दः प्रत्येकमभिसंबध्यते / इदं च बन्धं प्रत्येकविधमेव सत्कर्मतया त्रिविधमिति // आहसम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं न हि तदर्शनं मोहयति तस्यैव दर्शनत्वात् / उच्यते मिथ्यात्वप्रकृतित्वादतिचारसंभवादौपशमिकादिमोहनाच्च दर्शनमोहनीयमिति // दुविहं चरित्तमोहं कसाय तह नोकसाय वेयणियं / सोलसनवभेयं पुण जहासंखं मुणेयब्वं // 16 // द्विविधं चारित्रमोहनीयं कषायवेदनीयं तथा नोकषायवेदनीयं / षोडशनवभेदं पुनर्यथासंख्यं मुणितव्यम् // 16 // ] द्विविधं द्विप्रकारं चारित्रमोहनीयं प्राङ्निरूपितशब्दार्थ / कषायवेदनीयं तथा नोकषायवेदनीयं चेति / .वेदनीयशब्दः प्रत्येकमभिसंबध्यते / तत्र क्रोधादिकषायरूपेण यद्वेद्यते तत्क