________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [11] अइसंकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ / महनिद्दा दिणचिन्तियवावारपसाहणी पायम् / अत्रेत्थंभूतनिद्रादिकारणं कर्म अनन्तरं दर्शनविघातित्वादर्शनावरणं ग्राह्यमिति / दर्शनचतुष्टयमाहनयणेयरोहिकेवल दंसणवरणं चउब्विहं होइ। सायासाय दुभेयं च वेयणिज्ज मुणेयव् // 14 // [नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / सातासातद्विभेदं च वेदनीयं मुणितव्यम् // 14 // ] नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / आवरणशब्दः प्रत्येकमभिसंवध्यते / नयनं लोचनं चक्षुरिति पर्यायाः ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं वेति चक्षुःसामान्योपयोगावरणमित्यर्थः। इतरग्रहणादचक्षुर्दर्शनावरणं शेषेन्द्रियदर्शनावरणमिति / एवमवधिकेवलयोरपि योजनीयं // सातासातद्विभेदं च वेदनीयं मुणितव्यं / सातवेदनीयमसातवेदनीय च / आल्हादरूपेण यद्वद्यते तत्सातवेदनीयं / परितापरूपेण यद्वद्यते तदसातवेदनीय / मुणितव्यं ज्ञातव्यमिति // दुविहं च मोहणियं दंसणमोहं चरित्तमोहं च / दंसणमोहं तिविहं सम्मेयरमीसवेयणियं // 15 // [द्विविधं च मोहनीयं दर्शनमोहनीयं चारित्रमोहनीयं च / दर्शनमोहनीयं त्रिविधं सम्यक्त्वेतरमिश्रवेदनीयम् // 15 // ]