________________ [10] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / दिविघ्नोऽन्तरायस्तत्कारणमन्तरायमिति / मूलप्रकृतय एताः सामान्यप्रकृतय इत्यर्थः उत्तरप्रकृतीरेतद्विशेषरूपा अतो वक्ष्ये अत ऊर्ध्वमभिधास्य इति // क्रमप्रयोजनं प्रथमगुणघातादि यथा फर्मप्रकृतिसंग्रहण्यामुक्तं तथैव द्रष्टव्यं ग्रन्थविस्तरभयावस्तुतोऽप्रक्रान्तत्वाच्च न लिखितमिति / तथापढमं पंचवियप्पं मइसुयओहिमणकेवलावरणं / बीयं च नववियप्पं निदापण दंसणचउक // 12 // [प्रथमं पञ्चविकल्पं मतिश्रुतावधिमन केवलावरणम् / द्वितीयं च नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कम् // 12 // ] इह सूत्रक्रमप्रामाण्यात्प्रथममायं ज्ञानावरणं पञ्चविकल्पमिति पश्चभेदं / तानेव भेदानाह / मतिश्रुतावधिमन केवलावरणं मतिज्ञानाद्यावरणमित्यर्थः। द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति / निद्रापञ्चकमाहनिदा निदानिदा पयला तह होइ पयलपयला य। थीणद्धी असुरुद्दा निदापणगंजिणाभिहियं // 13 // [निद्रा निद्रानिद्रा प्रचला तथा भवति प्रचलाप्रचला च / स्त्यानर्द्धिश्च सुरुद्रा निद्रापञ्चकं जिनाभिहितम् // 13 // ] निद्रादीनां स्वरूपम् सुहपडिबोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य / पयला होइ ठियस्स उ पयलापयला य चंक्कमओ //