________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [9] [प्रथमं ज्ञानावरणं द्वितीयं पुनर्भवति दर्शनावरणम् / .. तृतीयं च वेदनीयं तथा चतुर्थं च मोहनीयम् // 10 // ] प्रथममायं ज्ञानावरणं आप्रियतेऽनेनावृणोतीति वावरणं ज्ञानस्यावरणं ज्ञानावरणं ज्ञानं मतिज्ञानादि। द्वितीयं पुनभवति दर्शनावरणं पुनःशब्दो विशेषणार्थः सामान्यावबोधावारकत्वात् दर्शनं चक्षुर्दर्शनादि / तृतीयं च वेदनीयं सातासातरूपेण वेद्यत इति वेदनीयं रूढशब्दात्पङ्कजादिवत् / तथा चतुर्थ कर्म किं अत आह मोहनीयं मोहयतीति मोहनीयं मिथ्यात्वादिरूपत्वादिति / आऊअ नामं गोयं चरमं पुण अंतराइयं होइ / मूलपयडीउ एया उत्तरपयडी अओ वुच्छं // 11 // [आयुष्कं नाम गोत्रं चरमं पुनरन्तरायिकं भवति / मूलप्रकृतय एता उत्तरप्रकृतीरतो वक्ष्ये // 11 // ] आयुष्कं नाम गोत्रं / तत्रैति याति वेत्यायुरननुभूतमेत्यनुभूतं च यातीत्यर्थः सर्वमपि कमैंवंभूतं तथापि प्रक्रान्तभवप्रबन्धाविच्छेदादायुष्कमेव गृह्यते अस्ति च विच्छेदो मिथ्यात्वादिषु। तथा गत्यादिशुभाशुभनमनान्नामयतीति नाम / तथा गां वाचं वायत इति गोत्रं रूढिषु हि क्रिया कर्मव्युत्पत्यर्थी नार्थक्रियार्था इत्युच्चैर्भावादिनिबन्धनमदुष्टमित्यर्थः / चरमं पुनः पर्यन्तवति तत्पुनरन्तरायं भवति दाना