________________ [ 42] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / द्विचिकित्सापरिग्रहः विश्रोतसिका तु संयमशस्यमङ्गीकृत्याध्यवसायसलिलस्य विश्रोतो गमनमिति, उपसंहरनाह // एवंविहपरिणामो सम्मदिट्ठी जिणेहि पन्नत्तो। एसो य भवसमुद्दलंघइ थोवेण कालेण // 6 // [ एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः / एष च भवसमुद्रं लङ्घयति स्तोकेन कालेन // 60 // ] एवंविधपरिणाम इत्यनन्तरोदितप्रशमादिपरिणामः सम्यग्दृष्टिजिनः प्रज्ञप्त इति प्रकटार्थः अस्यैव फलमाह / एष च भवसमुद्रं लंघयति अतिक्रामति स्तोकेन कालेन / प्राप्तवीजत्वादुत्कृष्टतोऽप्युपार्धपुद्गलपरावर्तान्तः सिद्धिप्राप्तेरिति / एवंविधमेव सम्यक्त्वं इत्येतत्प्रतिपादयन्नाहजं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं ति / निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊ वि॥६१॥ [ यन्मौनं तत्सम्यक् यत्सम्यक् तदिह भवति मौनमिति / निश्चयतः इतरस्य तु सम्यक्त्वं सम्यक्त्वहेतुरपि // 61 // ] मन्यते जगतस्त्रिकालावस्थामिति मुनिः तपस्वी तद्भावो मौनं अविकलं मुनिवृत्तमित्यर्थः। यन्मौनं तत्सम्यक सम्यक्त्वं यत्सम्यक् सम्यक्त्वं तदिह भवति मौनमिति। उक्तं चाचाराङ्गे