________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 43 ] जं मोणंति पासहा ते सम्मति पासहा / . जं सम्मति पासहा तं मोणंति पासहा // इत्यादि निश्चयतः परमार्थन निश्चयनयमतेनैव एतदेवमिति / जो जहवायं न कुणइ मिच्छद्दिट्टी तभो हु को अन्नो। वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो // इत्यादि वचनप्रामाण्यात् / इतरस्य तु व्यवहारनयस्य सम्यक्त्वं सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात् / एतदपि शुद्धचेतसां पारम्पर्येणापवर्गहेतुरिति / उक्तं च जइ मिणमयं पवज्जह ता मा ववहारनिच्छए मुयह / ववहारनयउच्छेए तित्थुच्छेओ जओऽवस्सं // इत्यादीनि वाचकमुख्येनोक्तं " तत्वार्थश्रद्धानं सम्यगदर्शन" (तत्त्वार्थाधिगमसूत्रम् 1-2) / तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाहतत्तत्थसदहाणं सम्मत्तं तंमि पसममाईया। पढमकसाओवसमादविक्खया हुँति नियमेण / 62 / [ तत्वार्थश्रद्धानं सम्यक्त्वं तस्मिन्प्रशमादयः / प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन // 6 // ] तत्त्वार्थश्रद्धानं सम्यक्त्वं / तस्मिन्प्रशमादयोऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन / अयमत्र भावार्थः /