________________ [44] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं न ह्यनन्तानुबन्धिक्षयोपशमादिमन्तरेण तत्वार्थश्रद्धानं भवति / सति च तत्क्षयोपशमे तदुदयवद्भ्यः सकाशादपेक्षयास्य प्रशमादयो विद्यन्त एवेति तत्वार्थश्रद्धानं सम्यक्त्वमित्युक्तं / .. के एते तत्वार्था इत्येतदभिधित्सयाह / जीवाजीवासवबंधसंवरा निज्जरा य मुक्खो य। तत्तत्था इत्थं पुण दुविहा जीवा समक्खाया॥६३॥ [ जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च। तत्वार्था अत्र पुनः द्विविधा जीवाः समाख्याताः॥६३॥] जीवाजीवास्रवबन्धसंबरा निर्जरा च मोक्षश्च तत्वार्था इति / एषां स्वरूपं वक्ष्यत्येव / असमासकरणं गाथाभंगभयार्थ निर्जरामोक्षयोः फलत्वेन प्राधान्यख्यापनार्थ चेति / अत्र पुनस्तत्वार्थचिन्तायां द्विविधा जीवाः समाख्यातास्तीर्थकरगणधरैरिति / द्वैविध्यमाहसंसारिणो य मुत्ता संसारी छविहा समासेण / पुढवीकाइअमादि तसकायंता पुढोभेया // 64 // [ संसारिणः च मुक्ताः संसारिणः षडूविधाः समासेन / पृथिवीकायिकादयस्त्रसकायान्ताः पृथग्भेदाः // 64 // ] चशब्दस्य व्यवहित उपन्यासः / संसारिणो मुक्ताश्चेति /