________________ [45 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तत्र संसारिणः षविधाः षट्प्रकाराः समासेन जातिसंक्षेपेणेति भावः / षड्विधत्वमेवाह / पृथिवीकायिकादयस्त्रसकायान्ताः / यथोक्तं "पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया" पृथग्भेदा इति स्वातन्व्येण पृथग्भिन्नस्वरूपाः न तु परमपुरुषविकारा इति // संसारिण एव प्रतिपादयन्द्वारगाथामाहभव्वाहारगपज्जत्तसुक्कसोवकमाउया चेव / सप्पडिपक्खा एए भणिया कम्मट्टमहणेहिं // 65 // [ भव्याहारकपर्याप्तशुक्लसोपक्रमायुषश्चैव / सप्रतिपक्षा एते भणिता अष्टकर्ममथनैः // 65 / / ] भव्या आहारकाः पर्याप्ताः शुक्ला इति शुक्लपाक्षिकाः सोपक्रमायुपश्चैव सप्रतिपक्षा एते भणिताः / तद्यथा / भव्याश्रामव्याश्चाहारकाश्चेत्यादि / कैर्भणिता इत्याह / अष्टकर्ममथनः तीर्थकरैरिति गाथाक्षरार्थः॥ भावार्थं तु स्वयमेव वक्ष्यति / तत्राद्यद्वारमाह भव्वा जिणेहि भणियाइहखलुजेसिद्धिगमणजोगाउ ते पुण अणाइपरिणामभावओ हुति नायव्वा 66