________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [41 ] दट्ठण पाणिनिवहं भीमे भवसागरंमि दुक्खत्तं / अविसेसओ णुकंपं दुहावि सामत्थओ कुणइ 58 [ दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् / अविशेषतः अनुकम्पां द्विधापि सामर्थ्यतः करोति 58 ] __ दृष्ट्वा प्राणिनिवहं जीवसंघातं व भीमे भयानके भवसागरे संसारसमुद्रे दुःखात शारीरमानसैदुःखैरभिभूतमित्यर्थः अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः / अनुकम्पां दयां द्विधापि द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन भावतो मार्गयोजनयां सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति // मन्नइ तमेव सच्च निस्संकं जं जिणेहिं पन्नत्तं / सुहपरिणामो सव्व कंखाइविसुत्तियारहिओ 59 [ मन्यते तदेव सत्यं निःशङ्क यज्जिनैः प्रज्ञप्तम् / शुभपरिणामः सर्व कांक्षादिविश्रोतसिकारहितः 59] मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्क शङ्कारहितं यज्जिनः प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः। सर्व समस्तं मन्यते न तु किंचिन्मन्यते किंचिन्नति भगवत्यविश्वासायोगात् / पुनरपि स एव विशिष्यते। किंविशिष्टः सन् / कांक्षादिविश्रोतसिकारहितः कांक्षा अन्योन्यदर्शनग्राह इत्युच्यते आदिशब्दा