________________ [40] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / राद्धयः प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्युपशमतः उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणाम इति // तथा नरविबुहेसरसुक्खंदुक्खं चिय भावओ य मन्नतो। संवेगओ न मुक्खं मुत्तणं किचि पत्थेइ // 56 // [ नरविबुधेश्वरसौख्यं दुःखमेव भावतः च मन्यमानः / संवेगतः न मोक्षं मुक्त्वा किंचित् प्रार्थयते // 56 // ] नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाच्च दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किंचित्प्रार्थयतेऽभिलषतीति / नारयतिरियनरामरभवेसु निव्वेयओवसइ दुक्खं। अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि 57 [ नारकतिर्यङ्नरामरभवेषु निर्वेदतो वसति दुःखम् / अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि // 57 // ] नारकतियङ्गरामरभवेषु सर्वेष्वेव निर्वेदतो निदेन कारणेन वसति दुःखं / किविशिष्टः सन् अकृतपरलोकमार्गः अकृतसदनुष्ठान इत्यर्थः / अयं हि जीवलोके परलोकानुष्ठान मन्तरेण सर्वमेवासारं मन्यते इति / ममत्व विषवेगरहितोऽपि तथा ह्ययं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति / तथा