________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [39] [अत्र च परिणामः खलु जीवस्य शुभ एव भवति विज्ञेयः / - किं मलकलङ्कमुक्तं कनकं भुवि ध्यामलं भवति // 54 // ] अत्र च सम्यक्त्वे सति किं, परिणामोऽध्यवसायः खलुशब्दोऽवधारणार्थः जीवस्य शुभ एव भवति विज्ञेयो न त्वशुभः अथवा किमत्र चित्रमिति / प्रतिवस्तूपमामाह। किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति न भवतीत्यर्थः। एवमत्रापि मलकलंकस्थानीयं प्रभूतं कलिष्टं कर्म ध्यामलत्वतुल्यस्त्वशुभपरिणामः स प्रभूते कलिष्टे कर्मणि क्षीणे जीवस्य न भवति // प्रशमादीनामेव बाह्ययोगत्वमुपदर्शयन्नाहपयईइ व कम्माणं वियाणिउं वा विवागमसुहं ति। अवरद्ध वि न कुप्पइ उवसमओ सव्वकालं पि / 55) [प्रकृत्या वा कर्मणां विज्ञाय वा विपाकमशुभमिति / अपराद्धयेऽपि न कुप्यति उपशमतःसर्वकालमपि // 55 // ] प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति / तथाहि कषायाविष्टोऽन्तमुहूर्तेन यत्कर्म बन्नाति तदनेकाभिः सागरोपमकोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः / एतत् ज्ञात्वा किं / अपराद्धयेऽपि न कुप्यति अपराध्यत इति अप