________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 97 ] अह सगयं वहणं चिय हेऊ तस्स त्ति कि परवहेणं / अप्पा खलु हंतव्यो कम्मक्खयमिच्छमाणेणं।१४४। [ अथ स्वगतं हननमेव हेतुस्तस्य इति किं परवधेन / आत्मैव हन्तव्यः कर्मक्षयमिच्छता // 144 // ] अथैवं मन्यसे स्वगतमात्मगतं हननमेव जिघांसनमेव हेतुस्तस्य कर्मक्षयस्यैतदाशङ्कयाह इति किं परवधेन एवं न किंचित्परव्यापादनेनात्मैव हन्तव्यः कर्मक्षयमिच्छता स्वगतवधस्यैव तनिमित्तत्वादिति // अह उभयक्खयहेऊ वहु त्ति नो तस्स तन्निमित्ताओ। अविरुद्धहेउजस्स य न निवित्ती इयरभावे वि।१४५। [ अथोभयक्षयहेतुर्वध इति न तस्य तन्निमित्तत्वात् / अविरुद्धहेतुजस्य च न निवृत्तिरितरभावेऽपि // 145 // ] अथैवं मन्यसे उभयक्षयहेतुर्वधः व्यापाद्यव्यापादककर्मक्षयहेतुप्पादनं कतृकर्मभावेन तदुभयनिमित्तत्वादस्येत्येतदाश याह नैतदेवं कुतस्तस्य कर्मणस्तन्निमित्तत्वात्तद्विरुद्धवधक्रियाजन्यत्वात् , यदि नामवं ततः किमिति अत्राह अविरुद्धहेतुजस्य च निवृत्तिहेतुत्वाभिमताविरुद्ध कारणजन्यस्य च वस्तुनो न निवृत्तिन विनाशः इतरभावेऽपि विनाशकारणाविरोधिपदार्थभावेऽपीति / एतदेव भावयति