________________ [98] सटीक भाषकप्रज्ञप्त्याख्यप्रकरणं / हिमजणियं सीयं चिय अवेइ अनलाओ नायवो वेइ। एवं अणभुवगमे अइप्पसंगो बला होइ / 146 / [हिमजनितं शीतमेवापैत्यनलात् नातपोऽपैति / एवमनभ्युपगमेऽतिप्रसङ्गो बलाद्भवति // 146 // ] हिमजनितं शीतमेवापैत्यनला शीतकारणविरोधित्वादनलस्य नातपोऽपैति तत्कारणाविरोधित्वादनलस्य एवमनभ्युपगमे कारणविरोधिनः सकाशानिवृत्तिरित्यनङ्गीकरणेऽतिप्र. सङ्गो बलाद्भवति तन्निवृत्तिवत्तदन्यनिवृत्तिलक्षणो अव्यवस्था नियमेनापद्यत इति / एतदेवाहतब्भावंमि अजं किचिवत्थुजत्तो कुओ विन हविज्जा। एवं च सवभावो पावइ अन्नन्नविक्खाए // 147 // [तदभावेऽपि च यत्किंचित् वस्तुजातं कुतश्चित् न भवेत् / एवं च सर्वाभावः प्रामोत्यन्योन्यापेक्षया // 147 // ] तद्भावेऽपि चीतिप्रसङ्गभावे च यत्किचिदत्र वस्तुजातं यत: कुतश्चित्सकाशान भवेत् अप्रतिपक्षादपि निवृत्त्यभ्युपगमात् / अत्रानिष्टमाह, एवं च सति सर्वाभावः प्राप्नोति अशेषपदार्थाभाव आपद्यते, कुतोऽन्योन्यापेक्षया अविरोधिनमप्यन्यमपेक्ष्यान्यस्य निवृत्तिरन्यं वान्यस्येति शून्यतापत्तिरिति //