________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [99] अह तं अहेउंगंचिय कहं नु अत्थि त्ति अवगमो कहय। नागांसमाझ्याणं कुओवि सिद्धो इह विणासो।१४८॥ [अथ तदहेतुकमेव कथं त्वस्तीति अपगमः कथं च / नाकाशादिनां कुतश्चिसिद्ध इह विनाशः // 148 // ] अथैवं मन्यसे तत्कर्माहेतुकमेव निर्हेतुकमेवेत्येतदाशङ्कयाह कथं त्वस्तीति नैवास्ति तदहेतुत्वात् खरविषाणादिवत् , आकाशादिना अहेतुकेन सता व्यभिचारमाशङ्कयाह अपगमः कथं विनाशश्च कथमस्येति एतदेव भावयति नाकाशादीनां नाकाशधर्मास्तिकायप्रभृतीनां कुतश्चिल्लकुटादेः सिद्ध इह विनाशः अहेतुकत्वेन नित्यत्वादिति / इत्तु चिय अफलत्ता नो कायव्वो वहु त्ति जीवाणं / वहहेउगं चिय तयं कहं निवित्ती तओ तस्स।१४९। [ अतोऽपि अफलत्वात् न कर्तव्यो वधो जीवानाम् / वधहेतुकमेव तत् कथं निवृत्तिस्ततस्तस्य // 149 // ] अतोऽपि चाहेतुककर्माविनाशित्वेन अफलत्वात् कर्मक्षयफलशून्यत्वात् न कर्तव्यो वधो जीवानामिति / वधहेतुकमेव तत्स्याद्वधनिमित्तमेव तत्कर्मत्येतदाशङ्कयाह कथं केन प्रकारेण निवृत्तिावृत्तिस्ततस्तस्माद्वधात्तस्य कर्मणः न हि यद्यतो भवति तत्तत एव न भवति भवनाभावप्रसङ्गादिति /