________________ [ 100 ] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / तम्मा पाणवहोवज्जियस्स कम्मस्स क्खवणहेउत्ता। तब्बिरई कायव्वा संवररूव त्ति नियमेणं // 15 // [ तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात् / ... तद्विरतिः कर्तव्या संवररूपेति नियमेन // 150 // ] यस्मादेवं वधहेतुकमेव तत्तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात्तद्विरतिर्वधविरतिः कर्तव्या संवररूपेति वधविरतिविशेषणा नियमेनावश्यतयेति // किं चसुहिएसु वि वहविरई कह कीरइ नत्थि पावमह तेसु / पुन्नक्खओ वि हु फलं तब्भावे मुत्तिविरहाओ।१५१॥ [ सुखितेष्वपि वधविरतिः किं क्रियते नास्ति पापमथ तेषु / पुण्यक्षयोऽपि फलमेव तद्भावे मुक्तिविरहात् // 151 // सुखितेष्वपि प्राणिषु वधविरतिक्पादननिवृत्तिः किं क्रियते भवद्भिर्नास्ति पापं क्षपणीयमथ तेषु सुखितेषु पुण्यनिमित्तत्वात्सुखस्य एतदाशङ्कयाह पुण्यक्षयोऽपि तद्वयापत्तिजनितः फलमेव अतस्तेष्वपि वधविरतिप्रसङ्गः कथं पुण्यक्षयः फलं तद्भावे पुण्यभावे मुक्तिविरहात् मोक्षाख्यप्रधानफलाभावात् पुण्यापुण्यक्षयनिमित्तत्वात्तस्येति / अह तं सयं चिय तओ खवेइ इयरं पि किं न एमेव। कालेणं खवइ चिय उवक्कमो कीरइ वहेण / 152 /