________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 101] [ अथ तत्स्वयमेव तकः क्षपयति इतरदपि किं न एवमेव / कालेन क्षपयत्येव उपक्रमः क्रियते वधेन // 152 // ] अथैवं मन्यसे तत्पुण्यं स्वयमेव तक आत्मनवासी सुखितः क्षपयत्यनुभवेनैव वेदयतीत्येतदाशङ्कयाह इतरदपि पापं किं न एवमेव किं न स्वयमेव दुःखितः क्षपयति क्षपयत्येवेत्यर्थः / अवं मन्यसे कालेन प्रदीर्घेण क्षपयत्येव नानान्यथाभाव उपक्रमः क्रियते वधेन तस्यैव प्रदीर्घकालवेघस्य पापस्य स्वल्पकालवेद्यत्वमापाद्यते व्यापत्तिकरणेनेति एतदाशङ्कयाह / इयरस्स किं न कीरइ सुहीण भोगंगसाहणेणेवं / नगुण त्ति तंमि खविए सुहभावो चेव तत्तुत्ति।१५३। [ इतरस्य किं न क्रियते सुखिना भोगाङ्गसाधनेन एवं / न गुण इति तस्मिन् क्षपिते सुखभावादेव तदिति // 153 // ] इतरस्येति पुण्यस्य किं न क्रियते उपक्रमः सुखिनां भोगाङ्गसाधनेन काश्मीरादेः कुंकुमादिसंपादनेन / अथैवं मन्यसे एवमुपक्रमद्वारेण न गुण इति तस्मिन्पुण्ये क्षपिते कुतः सुखभावादेव तत् इति ततः पुण्यात्सुखस्यैव प्रादुर्भावादिति एतदाशङ्कयाह / निरुवमसुक्खो मुक्खोनयसइ पुन्नेतओत्ति किन गुणो पावोदयसंदिद्धो इयरंमि उ निच्छओ केण॥१५४॥