________________ [ 96] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मुक्तानां कर्मबन्धः प्रामोति तस्यावधक्रियानिमित्तत्वात् मुक्तानां चावधक्रियोपेतत्वात् , एवं निरर्थका मुक्तिबन्धोपतत्वात् / अथैवं मन्यसे तस्य दुःखितसत्त्वव्यापादकस्य पुण्यबन्धो गुणो न तु कर्मक्षय इत्येतदाशङ्कयाह तकोऽपि न असावपि गुणो नान्तरायात्कारणादिति / एतदेव भावयतिवहमाणो ते नियमा करेइ वहपुनमंतरायं से। ता कह णु तस्स पुन तेसि क्खवणं व हेऊओ॥ [घ्नन् तान् नियमात्करोति वधपुण्यान्तरायममीषाम् / तत्कथं तु तस्य पुण्यं तेषां क्षपणवदहेतुकत्वात् // 143 // ] घ्नन् व्यापादयंस्तान् दुःखितसच्चानियमादवश्यमेव करोति निवर्तयति असो व्यापादकः वधपुण्यान्तरायममीषां दुःखितसत्त्वानां जीवन्तो हि तेऽन्यदुःखितवधेन पुण्यं कुर्वन्ति व्या. पादने च तेषां अन्यवधाभावात्पुण्यान्तरायं यस्मादेवं तत्तस्माकथं नु तस्य व्यापादकस्य पुण्यं नैवेत्यर्थः कुतः अहेतुकत्वादिति योगः / न ह्यन्यपुण्यान्तरायकरणं पुण्यहेतुरिति सिद्ध एव हेतुः। दृष्टान्तमाह तेषां क्षपणवत् तेषां दुःखितसत्वानां व्यापाद्यमानानां कर्मक्षपणवदिति, अयमत्र भावार्थः, दुःखितसत्त्वव्यापच्या कर्मक्षय इत्यभ्युपगमः ततश्च व्यापाद्यमानानामन्यव्यापादनाभावादहेतुकत्वात्कुत कर्मक्षय इति /