________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तिष्ठतुतावदिह प्रक्रमेऽन्यद्वक्तव्यं तत्क्षपणे दुःखितसत्त्वकर्मक्षपणे तस्य क्षपयितुर्दुःखितसत्वव्यापादकस्य को गुणो भवति न हि फलमनपेक्ष्य प्रवर्तते प्रेक्षावानिति, अथैवं मन्यसे कर्मक्षय इति कर्मक्षयो गुण इत्याशङ्कयाह / तत्कर्म तव हे वादिन् किंकारणं किंनिमित्तं निर्दिष्टं प्रतिपादितं शास्त्र इति // अन्नाणकारणं जइ तदवगमा चेव अवगमा तस्स / कि वहकिरियाइ तओ विवज्जओ तोइ अह हेऊ॥ [अज्ञानकारणं यदि तदपगमादेवापगमस्तस्य / किं वधक्रियया ततः विपर्ययः तस्या अथ हेतुः // 141 // ] __ अज्ञानकारणं अज्ञाननिमित्तं यदि एतदाशङ्कयाह तदपगमादेवाज्ञाननिवृत्तरेवापगमस्तस्य निवृत्तिस्तस्य कर्मणः कारणाभावात् कार्याभाव इति न्यायात्कि वधक्रियया तत: अप्रतिपक्षत्वात्तस्या विपर्ययः तस्या वधक्रियायाः अथ हेतु वधक्रियैवेति एतदाशङ्कयाह / मुत्ताण कम्मबंधो पावइ एवं निरत्थगा मुत्ती। अह तस्स पुन्नबंधो तओ विन अंतरायाओ 142 [ मुक्तानां कर्मबन्धः प्रामोति एवं निरर्थका मुक्तिः। अथ तस्य पुण्यबन्धः तकोऽपि नान्तरायात् // 142 // ]