________________ [ 94 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ अप्रतिष्ठानेऽपि सप्तमनरकपृथिवीनरके संक्लेशत एव तथोत्क्षेपनिपातजनितदुःखादेव कर्मक्षपणमिति नान्यथा, न यस्मात्तदभावे संक्लेशाभावे सुरो देवस्तत्रापि नरके यथासंभवं कथंचिद्गतः सन् चशब्दादन्यत्र च संक्लेशरहितः क्षपयति तत्कर्म यत्प्रवाहतो नरकवेदनीयमिति / / उपसंहरनाह / तम्हा ते वहमाणो अट्टज्झाणाइगं जणंतो वि / तकम्मक्खयहेउं न दोसवं होइ णायब्बो॥१३९॥ [ तस्मात्तान् घ्नन्नार्तध्यानादिकं जनयन्नपि / तेषां कर्मक्षयहेतुर्न दोषवान् भवति ज्ञातव्यः // 139 // ] यस्मादेवं तस्मात्तान् दुःखितान्प्राणिनः घ्नन् व्यापादयन् आर्तध्यानादिकं जनयन्नपि आरौिद्रध्यानं चित्रं च संकलेश कुर्वनपि तेषां कर्मक्षयहेतुस्तेषां दुःखितानां कर्मक्षयनिमित्तमिति कृत्वा न दोषवान् भवति ज्ञातव्यः संसारमोचक इति अयमपि पूर्वपक्षः / अत्रोत्तरमाहचिट्ठउ ता इह अन्न तक्खवणे तस्स को गुणो होइ। कम्मक्खउ त्ति तंतुह किकारणगं विणिहिटुं॥१४॥ [तिष्ठतु तावदिहान्यत्क्षपणे तस्य को गुणो भवति / कर्मक्षय इति तत्तव किंकारणकं निर्दिष्टम् // 140 // ] * सप्तमनरके.