________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 93 ] माधार्मिकसुरैरम्बादिभिरनवरतं सततं रौद्रध्यानगतानामपि न तथा वन्धो यथा विगमः कर्मणो दुःखानुभवादिति गाथार्थः / कथमेतनिश्चीयत इत्यत्राह। नरगाउबंधविरहा अणंतरं तंमि अणुववत्तीओ। तदभावेवि य खवणं परुप्परं दुक्खकरणाओ।१३७। [ नरकायुबन्धविरहादनन्तरं तस्मिन्ननुत्पत्तेः। तदभावेऽपि च क्षपणं परस्परं दुःखकरणात् // 137 // ] नरकायुबन्धविरहात् न कदाचिन्नारको नरकायुर्वधाति, अत्रैव युक्तिमाह, अनन्तरं नरकोद्वर्तनसमनन्तरमेव तस्मिन्नरक एवानुत्पत्तेरनुत्पादात् न चाव्यवहितमुत्पद्यत इति सिद्धान्तः, ततश्च यथेदं न बध्नाति तथान्यदपीत्यभिप्रायः। तदभावेऽपि च परमाधामिकाद्यभावेऽपि च पङ्कादिपृथिवीषु क्षपणं कर्मणस्तेषां परस्परं दुःखकरणादन्योन्यपीडाकरणेन " परस्परोदीरितदुःखा:" ( तत्त्वार्थाधिगमसूत्रम् 3 / 4) इति वचनात् नान्यनिमित्तं क्षपणमिति स्यादप्रतिष्ठाने नान्यनिमित्तमित्येतदाशङ्कयाह / अपइट्ठाणंमि वि संकिलेसओ चेव कम्मखवणं ति। न हि तयभावंमि सुरो तत्थ वि य खवेइ तं कम्मं // [अप्रतिष्ठानेऽपि संक्लेशत एव कर्मक्षपणमिति / न हि तदभावे सुरस्तत्रापि च क्षपयति तत्कर्म / / 138 // ]