________________ कर्तव्यो मादन्यथा यद्येवं नर कर्तव्या तद्व्याप [ 92 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / यस्मादेवं तत्तस्मात्प्राणवधनिवृत्ति विशेषेण भवति कर्तव्या अपि च सुखितेषु सुखितविषये कर्तव्या तद्व्यापादन एव दोषसंभवादन्यथा यद्येवं न क्रियते ततः करणीयनिषेधने दोषः कर्तव्यो हि परलोकार्थिना दु:खितानां पापक्षयः तनिवृत्तिकरणे प्रव्रज्यादिदाननिवृत्तिकरणवदोष इत्येष पूर्वपक्षः // अत्रोत्तरमाहतहवहभावे पावखओ त्ति न उ अट्टज्झाणओ बंधो। तेसिमिह कि पमाणं नारगनाओवगं वयणं // 135 // [ तथावधभावे पापक्षय इति न त्वार्तध्यानतो बन्धः / तेषामिह किं प्रमाणं नारकन्यायोपगं वचनम् // 135 / / ] तथा तेन प्रकारेण वधभावे व्यापत्तिकरणे पापक्षय एव न त्यार्तध्यानतो बन्धस्तेषां दुःखितानामपि किं प्रमाणं न किंचिदित्यर्थः, अत्राह, नारकन्यायोपगं वचनं नारकन्यायानुसारि वचनं प्रमाणमिति / एतदेव भावयति- . तेसिं वहिज्जमाण वि परमाहम्मिअसुरेहि अणवरयं। रुदज्झाणगयाण वि न तहा बंधो जहा विगमो / [ तेषां वध्यमानानामपि परमाधार्मिकसुरैरनवरतम् / . रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः 136 ] तेषां नारकाणां वध्यमानानां हन्यमानानामपि कैः पर