________________ सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 91 ] न च संति त्रसभावे नैव विद्यमान एव त्रसत्वे स्थावरकायगतमसौ हन्ति अपरित्यक्ते सत्वे स्थावरकायगमनाभावात् तस्मादज्ञातमेतत् उक्तन्यायादनुदाहरणमेतत् मुग्धमतिविलोभनं ज्ञेयं ऋजुमतिविस्मयकरं ज्ञातव्यमिति / इदानीं अन्यद्वादस्थानकम् / अन्ने उ दुहियसत्ता संसारं परिअडंति पावेण / वावाएयव्वा खलु ते तखवणट्ठया बिति॥१३३॥ [अन्ये तु दुःखितसन्चाः संसारं पर्यटन्ति पापेन / व्यापादयितव्याः खलु ते तत्क्षपणार्थं ब्रुवते // 133 // ] अन्ये तु संसारमोचका ब्रुवत इति योगः / किं ब्रुवत इत्याह दुःखितसत्त्वाः कृमिपिपीलिकादयः संसारं पर्यटन्ति संसारमवगाहन्ते पापेनापुण्येन हेतुना यतश्चैवमतो व्यापादयितव्याः खलु ते खल्वित्यवधारणे व्यापादयितव्या एव ते दुःखितसत्त्वाः, किमर्थमित्याह, तत्क्षपणार्थ पापक्षपणनिमित्तमितिता पाणवहनिवित्ती नो अविसेसेण होइ कायब्वा। अवि असुहिएसु अन्नह करणिज्जनिसेहणे दोसो॥ [तत्प्राणवधनिवृत्तिः नो अविशेषेण भवति कर्तव्या / अपि च सुखितेषु अन्यथा करणीयनिषेधने दोषः 134 ]