________________ [ 90 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / त्रससंभारकृतेन तुरवधारणे त्रससंभारकृतेनैव त्रसाः खल्विति वसा एव खलुशब्दस्यावधारणार्थत्वात् अत एवास्मादेव निमित्तभेदात्तयोस्त्रसस्थावरयोर्भेदः तस्मिन्सति अनर्थको भूतशब्द इति / इदानी दृष्टान्तदा न्तिकयोर्वैषम्यमाहनागरगंमि वि गामाइसंकमे अवगयंमि तब्भावे / नत्थि हु वहे वि भंगोअणवगए किमिह गामेण 131 [ नागरकेऽपि ग्रामादिसंक्रमे अपगते तद्भावे / नास्त्येव वधेऽपि भङ्गोऽनपगते किमिह ग्रामेण // 131 // ] नागरकेऽपि दृष्टान्ततयोपन्यस्त इदं चिन्त्यते / ग्रामादिसंक्रमे तस्य किमसौ नागरकभावोऽपैति को न वा। यद्यपैति ततो ग्रामादिसंक्रमे सति, अपगते तद्भावे नागरकभावे नास्त्येव वधेऽपि भङ्गः प्रत्याख्यानस्य तथाभिसन्धेः। अथ नापैत्यत्राह / अनपगते आपुरुषमभिसन्धिना अनिवृत्ते नागरकभावे किमिह ग्रामेण तत्रापि वधविरतिविषयस्तथापुरुषभावा. निवृत्तेरितिन य सइ तसभावंमि थावरकायगयं तु सो बहइ। तम्हा अणायमेयं मुद्धमइविलोहणं नेयं // 132 // [न च सति त्रसभावे स्थावरकायगतमसौ हन्ति / तस्मादज्ञातमेतत् मुग्धमतिविलोभनं ज्ञेयं // 132 // ]