________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 119 ] [ सकचन्द विषशस्त्रादियोगतः तस्य अथ च दृश्यन्ते / तद्भावेऽपि तद्भिन्नवस्तुप्रगते न एवं तु // 189 // ] स्रकचन्दनविषशस्त्रादियोगतस्तस्य शरीरस्याथ च दृश्यन्ते स्वकीयेऽनुभवेन अन्यदीये रोमाश्चादिलिङ्गत इति / विपक्षे बाधामाह / तद्भावेऽपि स्रगादिभावेऽपि तद्भिन्नवस्तुप्रगते आत्मभिन्नघटादिवस्तुसंगते न एवं सुखादयो दृश्यन्ते / न हि घटे स्रगादिभिश्चर्चितेऽपि देवदत्तस्य सुखादय इति / उपसंहरनाहअन्नुन्नाणुगमाओ भिन्नाभिन्नो तओ सरीराओ। तस्स य वहमि एवं तस्स वहो होइ नायव्वो।१९०। [अन्योन्यानुगमात् भिन्नाभिन्नोऽसौ शरीरात् / तस्य च वधे एवं तस्य वधो भवति ज्ञातव्यः // 190 // ] अन्योन्यानुगमाज्जीवशरीरयोरन्योन्यानवेधाद्भिन्नाभिन्नो ऽसौ जीवः शरीरात् आहान्योन्यरूपानुवेधे इतरेतररूपापत्तिस्ततश्च नामूर्त मूर्ततां याति मूतं नायात्यमूर्तताम् / द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मरूपतः // इति वचनाद्भगवन्मतविरोधो न भगवद्वोदृढदानात् आलदानात नानुभवविरुद्धवस्तुवादी भगवान् नय विषयत्वात् , तस्य च शरीरस्य वधे घाते एवमुक्तन्यायाजीवानुवेधसिद्धौ, तस्य जीवस्य बधो भवति ज्ञातव्य इति /