________________ [118 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / दध्यवसायशून्यत्वात् घटवत् न हि घटस्यापराप्रेरितस्य क्वचित्करणमुपलब्धं न च प्रेरकः पुरुषः उदासीनत्वादेकस्वभावत्वाच्च तदभावे भोग्याभावे शरीराभावे वा. भुंक्ते च कथं अमूर्त इति बुद्धिप्रतिबिम्बोदयरूपोऽपि भोगो न युज्यते अमू. तस्य प्रतिबिम्बाभावात् भावेऽपि मुक्तादिभिरतिप्रसङ्गः न च सनिहितमपि किंचिदेव प्रतिबिंब्यते न सर्व तत्म्वभावमिति विशेषहेत्वभावात् अलं प्रसङ्गेन / किं चन य चेयणा वि अणुभवसिद्धा देहमि पावई एवं। तीए विरहमि दढं सुहदुक्खाई न जुज्जति / 188 / [न च चेतनापि अनुभवसिद्धा देहे प्रामोति एवम् / तस्या अभाव दृढं सुखदुःखादयो न युज्यन्ते // 188 // ] न च चेतनापि अनुभवसिद्धा स्पृष्टोपलब्धिद्वारेण देहे प्रामोति एवमेकान्तभेदे सति, न हि घटे काष्ठादिना स्पृष्टे चैतन्यं, वेद्यते च देह इति, तस्याश्चेतनाया विरहे चाभावे च दृढमत्यर्थं सुखदुःखादयो न युज्यन्ते, न हि पाषाणप्रतिमायां सुखादयोऽचेतनत्वादिति, यदि न युज्यन्ते नाम का हानिरित्येतदाशंक्याहसगचंदणविससत्थाइजोगओ तस्स अह य दीसंति। तब्भावंमि वि तन्भिन्नवत्थुपगए ण एवं तु / 189 //