________________ [ 120 ] सटीक श्रावकज्ञप्त्याख्यप्रकरणं / - अधुना वधलक्षणमेवाहतप्पज्जायविणासो दुक्खुप्पाओ असंकिलेसोय / एस.वहो जिणभणिओ वज्जेयव्वो पयत्तेणं / 191 // [ तत्पर्यायविनाशः दुःखोत्पादश्च संक्लेशश्च / एष वधो जिनभणितः वर्जयितव्यः प्रयत्नेन // 191 // ] तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च कलिष्टचित्तोत्पादश्वात्मनः एष वधो व्यस्तः समस्तो वा ओघतो जिनभणितः तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेनोपयोगसारेणानुष्ठानेनेति // इदानीमन्यद्वादस्थानकम्अन्ने अकालमरणस्सभावओ वहनिवित्तिमो मोहा। वंझासुअपिसियासणनिवित्तितुल्लं ववइसंति।१९२। [अन्येऽकालमरणस्याभावात् वनिवृत्तिर्मोहात् / वंध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति // 192 // ] अन्ये वादिन: स्वकृतकर्मफलं प्रत्युपभोगभावेन अकालमरणस्याभावाद्वधनिवृत्तिमेव मोहाद्वेतोर्वन्ध्यासुतपिशिताशननिवृत्तितुल्याँ व्यपदिशन्ति / वन्ध्यासुतस्यैवाभावात्तत्पिशितस्याप्यभावः, पिशितं मांसमुच्यते, तदभावाच कुतस्तस्याशनं भक्षणम् , असति तस्मिनिर्विषया तनिवृत्तिः / एवमकालमर